वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्॥
या कुन्देन्दु-तुषार-धवला या शुभ्र-वस्त्रावृता या वीणावर-दण्ड-मण्डित-करा या श्वेत-पद्मासना।या ब्रह्माच्युत-शंकर-प्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेष-जाड्यापहा॥
शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्। लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्।।